Jan 21, 2022

श्रीमत् आद्यशङ्कराचार्यविरचितं नर्मदाष्टकं


॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥ 

॥ नर्मदे हर नर्मदे हर नर्मदे हर

॥ हर हर नर्मदे हर हर नर्मदे हर हर नर्मदे


सबिन्दुसिन्धुसुस्खलत्-तरङ्ग-भङ्गरञ्जितं । द्विषत्सु पापजातजातकादिवारिसंयुतम् ॥ कृतान्तदूतकालभूतभीतिहारिवर्मदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥ त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं । कलौ मलौघभारहारिसर्वतीर्थनायकम् ॥ 

सुमत्स्यकच्छनक्रचक्रवाकचक्रशर्मदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥
महागभीरनीरपूरपातधूतभूतलं । ध्वनत्समस्तपातकारिदारितापदाचलम् ॥ जगल्लये महाभये मृकण्डुसूनुहर्म्यदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥३॥ गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा । मृकण्डुसूनुशौनकासुरारिसेवितं सदा ॥ पुनर्भवाब्धिजन्मसम्भवाब्धिदुःखवर्मदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥४॥ अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं । सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ॥ वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥५॥


सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः धृतं स्वकीयमानसेषु नारदादिषट्पदैः  
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं
। ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ॥ विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥७॥ अहो धृतं स्वनं श्रुतं महेशिकेशजातटे । किरातसूतवाडवेषु पण्डिते शठे नटे ॥ दुरन्तपापतापहारि सर्वजन्तुशर्मदे । त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥८॥ इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा । पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ॥ सुलभ्यदेहदुर्लभं महेशधामगौरवं । पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥९॥

॥ इति श्रीमत् आद्यशङ्कराचार्यविरचितं नर्मदाष्टकं सम्पूर्णम् ॥



No comments:

Post a Comment