Showing posts with label अथर्वशीर्ष. Show all posts
Showing posts with label अथर्वशीर्ष. Show all posts

Jan 25, 2023

श्री गणपत्यथर्वशीर्षोपनिषद्


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


अथ गणेशाथर्वशीर्षोपनिषद् व्याख्यास्यामः ॥ श्रीगणेशाय नमः ॥ ॐ ब्रह्मणस्पतये नमः ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।   स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।  स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥  ॥ ॐ शांतिः शांतिः शांतिः ॥ ॐ ब्रह्मणस्पतये नमः ॥ स्तुति प्रार्थना ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥१॥ ऋतं वच्मि । सत्यं वच्मि ॥२॥ अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधरात्तात । सर्वतो मां पाहि पाहि समन्तात् ॥३॥ स्वरूप-तत्व त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥ सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥६॥ 
मंत्र गायत्री गणादिं पूर्वमुच्चार्य वर्णादिस्तदनंतरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकार: पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । संहिता संधिः । सैषा गणेशविद्या । गणक ऋषिः । निचृद् गायत्रीच्छन्दः । गणपतिर्देवता । ॐ गं गणपतये नमः ॥७॥ ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥८॥ ध्यान एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।  रदं च वरदं हस्तैबिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥ भक्तानुकंपिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् ॥  एवं ध्यायति यो नित्यं स योगी योगिनांवरः ॥९॥ नमस्कारः ॐ नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥ पाठ, पूजा, जप माहात्म्य तथा फल  एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्वतः सुखमेधते । स सर्वविघ्नैर्न बाध्यते । स पंचमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानोऽपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति । इदमथर्वशीर्षम् अशिष्याय न देयम् । यो यदि मोहाद् दास्यति, स पापीयान् भवति । सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥११॥ अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ॥१२॥ यो दूर्वाङ्करैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते । स सर्वं लभते । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते । महादोषात् प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद् भवति स सर्वविद् भवति य एवं वेद । इत्युपनिषद् ॥१३॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।  स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।  स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥  ॥ ॐ शांतिः शांतिः शांतिः ॥ ॐ ब्रह्मणस्पतये नमः ॥  ॥ इति गणपत्यथर्वशीर्षं सम्पूर्णम् ॥ 

श्री गणपत्यथर्वशीर्षं - २१ आवर्तने



Mar 30, 2022

श्री स्वामी समर्थ अथर्वशीर्ष


॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥  ॥ श्री स्वामी समर्थ जय जय स्वामी समर्थ ॥ या श्री स्वामी समर्थ अथर्वशीर्षाचे ब्रह्मा ऋषी । परमात्मा देवता ॥ गायत्री हा छंद । मूळ पुरुष । वडाचे झाड । दत्तनगर । मूळ मूळ हे अग्नीनारायणयुक्त बीज । आदिमाया शक्ती । सर्व तापहर सप्ताक्षरयुक्त मंत्र हा कीलक ॥ धर्म-अर्थ-काम-मोक्ष या पुरुषार्थ प्राप्तीसाठी जपाचा विनियोग ॥ ॐ लं ॐ हं । ॐ यं ॐ वं । ॐ रं ॐ सं । या बीजाक्षरांसह षडंग न्यास ॥ ॐ नमोजी परब्रह्मा । परमात्मा प्राणदाता । ओंकार स्वरूपा श्री स्वामी समर्था नमो नमो हे कवच ॥ ऐसा हा मंत्र जाणावा ॥ ॐ इह-पर-सुरलोकी ॐ । ॐ श्री स्वामी समर्था नमो नमो । रक्ष रक्ष मज । रक्ष रक्ष मज ॥

तू कर्ता तू धर्ता । तूचि परिपाता । तूचि संहर्ता । या अनंत विश्वाचा ॥

भय मज मरणाचे । भय चिंतातुर जगण्याचे । भय शीलभ्रष्ट या जगताचे । सांभाळी देवा मला ॥

देवा रक्षी मज क्षणोक्षणी । रक्षी मज दिनोदिनी । रक्षी मज निशीदिनी । शरण शरण आलो तुला ॥ ॐ इह-पर-सुरलोकी ॐ ॥ तूचि सत्यज्ञान । सृष्टीचे विज्ञान । तू मूळ कारण । “अहं ब्रह्मास्मि"चे ॥ तू ब्रह्मा विष्णु रुद्र । अग्नी वायु इंद्र । आपो भूमी सूर्य चंद्र । व्योम तू ॥ तू ऋग्वेद यजुर्वेद । तू अथर्व सामवेद । पुराण आणि उपनिषद । सर्वही तूच तू ॥ देवा तू वाङ्मय । तू चिन्मय । अणुरेणू हिरण्मय । ब्रह्ममय तूचि ॥

ॐ इह-पर-सुरलोकी ॐ ॥ सोहं आत्माराम । कोहं मायाभ्रम । दाविशी उत्तम । नामाच्या आदर्शी ॥ ॐ हे एकाक्षरी ब्रह्म । ते तुझेचि निजरूप । प्रकाशे अपरंपार । वर्णिता वर्णवेना ॥ दोन अक्षरी दत्त । स्मर्तृगामी नाथ आर्तांचा आधार । परोपकारी ॥ तीन अक्षरी श्रीपाद । वैराग्य प्रखर । जाळिला विकार । शिव तेजे ॥ नरसिंह अक्षरे चार । आश्रम धर्म । वेदांचा विचार । विवरिला ॥ स्वामी समर्थ पंचाक्षर । मोक्षाचे द्वार । तोडिला आचार । दांभिकांचा ॥ ॐ दत्त । श्रीपाद नरसिंह । स्वामी समर्थ । पंधरा अक्षरी मंत्र हा ॥ जपता निरंतरी । आबाल-थोरी । कोणी असो जरी । प्रपंची विकारी ॥ तयासी सत्वरी । स्वामी दत्त अंतरी । होईल तमारी । उद्धार कर्ता ॥ साऱ्या रोगव्याधी । बाधा मनोव्याधी । घोर कष्ट सर्वांआधी । नष्टतील ॥ अक्काबाईचा फेरा । जाईल माघारा । येईल लक्ष्मी घरा । नित्य पाठे ॥ अभक्ष्य भक्षण । पापाचे कारण । जाईल विरून । अथर्व पाठाने ॥ अपेय पान । दुर्गुण महान । जाईल निरसून । अथर्व पाठाने ॥ अगम्य गमन । नरक दारुण । जाईल जळून । अथर्व पाठाने ॥ व्रात्य संभाषण । बुद्धीचे ग्रहण । जाईल सुटून । अथर्व पाठाने ॥ पंचमहापापे । भस्मसात आपोआपे । अथर्व प्रतापे । होतील पै ॥ सहस्त्रावर्तन । हे सहस्त्रभोजन । वा शतयज्ञाहून । पुण्यदायी ॥ आता येणे होवो आरोग्यवृद्धी- ऐश्वर्यवृद्धी- शांतिवृद्धी- वंशवृद्धी- धनवृद्धी- ज्ञानवृद्धी- योगवृद्धी- कीर्तीवृद्धी । दिगंत पाठकाची ॥ हरि ॐ तत्सत् ॥ ऐसा हा मंत्र जाणावा ॥ इति श्री उपनिषदस्वरूप श्री स्वामी समर्थ अथर्वशीर्ष स्तोत्र संपूर्ण ॥ श्री स्वामी समर्थ ॥ श्री स्वामी समर्थ ॥ श्री स्वामी समर्थ ॥

रचनाकार - श्रीयुत् नागेश करंबेळकर



Jul 14, 2016

॥ श्री दत्त अथर्वशीर्ष ॥


॥ हरिः ॐ ॥

ॐ नमो भगवते दत्तात्रेयाय अवधूताय

दिगंबराय विधिहरिहराय आदितत्त्वाय आदिशक्तये ॥१॥


त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी

त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥२॥


त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः

विश्वनाथः त्वं विश्वनाटकसूत्रधारः

त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥३॥


त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः

त्वं परमानन्दः त्वं सच्चिदानन्दः

त्वमेव चैतन्यः चैतन्यदत्तात्रेयः

ॐ चैतन्यदत्तात्रेयाय नमः ॥४॥


त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः

दयाघनः भजनप्रियः त्वं पतितपावनः

करुणाकरः भवभयहरः ॥५॥


त्वं भक्तकारणसंभूतः अत्रिसुतः अनसूयात्मजः

त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासी

श्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः

अक्कलकोटनिवासी श्रीस्वामीसमर्थः

त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती

त्वं श्रीसद्गुरु माधवसरस्वती ॥६॥


त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् ।

दीने आर्ते मयि दयां कुरु

तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः ।

हे भगवन । वरददत्तात्रेय।

मामुद्धर । मामुद्धर । मामुद्धर इति प्रार्थयामि ।

ॐ द्रां दत्तात्रेयाय नमः ॥७॥


॥  ॐ दिगंबराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥

॥ ॐ र्‍हीं क्रीं र्‍हीं असाध्यसाधकाय दत्तात्रेयाय नमः