Showing posts with label अधिक मास. Show all posts
Showing posts with label अधिक मास. Show all posts

Sep 22, 2020

श्रीविष्णोरष्टाविंशतिनाम स्तोत्रम्


पुरुषोत्तम मास ( अधिक मास ) विशेष

भगवान विष्णूंच्या सहस्त्र नामांमधील काही नामें विशेष प्रभावी, दिव्य आणि अलौकिक आहेत. त्या नामांचे नियमित पठण अतिशय पुण्यदायक असून, त्यायोगें साधकांस त्वरित फलप्राप्ती होते. ह्या स्तोत्र प्रभावाने पठणकर्त्यांस एक कोटी गोदान केल्याचे, शंभर अश्वमेध यज्ञ केल्याचे आणि एक हजार कन्यादान केल्याचे फळ मिळते. अमावास्या, पौर्णिमा तसेच एकादशी आणि नित्य नियमानें रोज सायंकाळीं, प्रातःकाळी व मध्याह्न काळी या नावांचा जप करणार्‍या माणसाच्या सर्व पापांचा नाश होतो.

श्रीविष्णोरष्टाविंशतिनाम स्तोत्राचा एक पाठ अतिशय कमी वेळात होतो, सर्व भक्तांनी ह्या अल्पसेवेचा अवश्य लाभ घ्यावा. 


॥ श्री गणेशाय नमः ॥

॥ ॐ श्री परमात्मने नमः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥ 


अर्जुन उवाच

किं नु नाम सहस्राणि जपन्ते च पुनः पुनः ।

यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १ ॥


श्रीभगवानुवाच

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।

गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥

पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ।

गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥

विश्वरुपं वासुदेवं रामं नारायणं हरिम् ।

दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।

गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥

कन्यादानसहस्राणां फलं प्रापोन्ति मानवः । 

अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥

सन्ध्याकाले स्मरेन्ननित्यं प्रातःकाले तथैव च ।

मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥

॥ इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनाम स्तोत्रं सम्पूर्णम् ॥


Sep 21, 2020

श्री विष्णु सहस्त्रनाम


पुरुषोत्तम मास ( अधिक मास ) विशेष

॥ श्री गणेशाय नमः ॥

॥ ॐ श्री परमात्मने नमः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

           मंङ्गलम्

अथ श्रीविष्णुसहस्त्रनाम स्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

यस्य स्मरणमात्रेन जन्मसंसारबन्धनात्‌ । 

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥

नमः समस्तभूतानामादिभूताय भूभृते ।

अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥


॥ अथ ध्यानम् ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

॥ अथ ध्यानम् ॥


ॐ नमो भगवते श्रीवासुदेवाय ।

ॐ नमः शिवाय ।

ॐ नमो भगवते श्रीवासुदेवाय ।

ॐ नमः शिवाय ।

ॐ नमो भगवते श्रीवासुदेवाय ।

ॐ नमः शिवाय ।


ॐ विश्वं विष्णुर्वषट्‌कारो भूतभव्यभवत्प्रभुः ।

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥१॥


पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥२॥


योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥३॥


सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥४॥


स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।

अनादिनिधनो धाता विधाता धातुरुत्तमः ॥५॥


अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥६॥


अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्‌ ॥७॥


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥


ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्‌ ॥९॥


सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥


अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युत ।

वृषाकपरिमेयत्मा सर्वयोगविनिःसृतः ॥११॥


वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः ।

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥१२॥


रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥१३॥


सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥१४॥


लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥१५॥


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥१६॥ ( हा श्लोक उदरव्यथेसाठी विशेष लाभदायक आहे. )