Sep 21, 2020

श्री विष्णु सहस्त्रनाम


पुरुषोत्तम मास ( अधिक मास ) विशेष

॥ श्री गणेशाय नमः ॥

॥ ॐ श्री परमात्मने नमः ॥

॥ ॐ नमो भगवते वासुदेवाय ॥

           मंङ्गलम्

अथ श्रीविष्णुसहस्त्रनाम स्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

यस्य स्मरणमात्रेन जन्मसंसारबन्धनात्‌ । 

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥

नमः समस्तभूतानामादिभूताय भूभृते ।

अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥


॥ अथ ध्यानम् ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

॥ अथ ध्यानम् ॥


ॐ नमो भगवते श्रीवासुदेवाय ।

ॐ नमः शिवाय ।

ॐ नमो भगवते श्रीवासुदेवाय ।

ॐ नमः शिवाय ।

ॐ नमो भगवते श्रीवासुदेवाय ।

ॐ नमः शिवाय ।


ॐ विश्वं विष्णुर्वषट्‌कारो भूतभव्यभवत्प्रभुः ।

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥१॥


पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥२॥


योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥३॥


सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥४॥


स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।

अनादिनिधनो धाता विधाता धातुरुत्तमः ॥५॥


अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥६॥


अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्‌ ॥७॥


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥


ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्‌ ॥९॥


सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥


अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युत ।

वृषाकपरिमेयत्मा सर्वयोगविनिःसृतः ॥११॥


वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः ।

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥१२॥


रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥१३॥


सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥१४॥


लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥१५॥


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥१६॥ ( हा श्लोक उदरव्यथेसाठी विशेष लाभदायक आहे. )

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ।

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥१७॥


वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।

अतीन्द्रियो महामायो महोत्साहो महाबलः ॥१८॥ 


महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक ॥१९॥


महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

अनिरुध्दः सुरानन्दो गोविन्दो गोविदां पतिः ॥२०॥


मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥२१॥


अमृत्युः सर्वदृक्‌ सिंहः सन्धाता सन्धिमान् स्थिरः ।

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥२२॥


गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।

निमिषोऽनिमिषः स्त्रग्वी वाचस्पतिरुदारधीः ॥२३॥


अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।

सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात्‌ ॥२४॥


आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।

अहः संवर्तको वह्निरनिलो धरणीधरः ॥२५॥


सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।

सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥२६॥


असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।

सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥२७॥( हा श्लोक इच्छापूर्तीकरिता विशेष लाभदायक आहे. )


वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥२८॥


सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

नैकरुपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥२९॥


ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।

ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥३०॥


अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।

औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥३१॥ ( हा श्लोक सर्वरोगशमनार्थ विशेष लाभदायक आहे. )


भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥३२॥ ( हा श्लोक कार्यसिद्धीसाठी विशेष लाभदायक आहे. )


युगादिकृद्युगावर्तो नैकमायो महाशनः ।

अदृश्यो व्यक्तरुपश्च सहस्त्रजिदनन्तजित्‌ ॥३३॥


इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥३४॥


अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥३५॥


स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥३६॥


अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥३७॥


पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्‌ ।

महर्धिर्‌ ऋध्दो वृध्दात्मा महाक्षो गरुडध्वजः ॥३८॥


अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥३९॥


विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।

महीधरो महाभागो वेगवानमिताशनः ॥४०॥


उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

करणं कारणं कर्ता विकर्ता गहनो गुहः ॥४१॥


व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।

परर्ध्दिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥४२॥ ( हा श्लोक व्यवसायवृद्धी, नोकरीत बढती यांकरिता विशेष लाभदायक आहे. )


रामो विरामो विरजो मार्गो नेयोऽनयः ।

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥४३॥


वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥४४॥


ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥४५॥ ( हा श्लोक प्रतिकूल काळांत रक्षणार्थ विशेष लाभदायक आहे. )


विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्‌ ।

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥४६॥


अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयुपो महामखः ।

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥४७॥ 


यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्‌ ॥४८॥


सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्‌ ।

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥४९॥


स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्‌ ।

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥५०॥


धर्मगुब्धर्मकृध्दर्मी सदसत्क्षरमक्षरम्‌ ।

अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥५१॥


गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।

आदिदेवो महादेवो देवेशो देवभृद्‌गुरुः ॥५२॥


उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥५३॥


सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।

विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥५४॥ 


जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः ।

अम्भोनिधिरनन्तामा महोदधिशयोऽन्तकः ॥५५॥


अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥५६॥


महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्‌ ॥५७॥


महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥५८॥ 


वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥५९॥


भगवान्‌ भगहाऽनन्दी वनमाली हलायुधः ।

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥६०॥


सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।

दिव: स्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥६१॥


त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्‌ ।

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्‌ ॥६२॥


शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥६३॥


अनिवर्ती निवृत्तामा संक्षेप्ता क्षेमकृच्छिवः ।

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥६४॥ ( हा श्लोक सर्व कल्याण प्राप्तीसाठी विशेष लाभदायक आहे. )


श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।

श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ॥६५॥ ( हा श्लोक भगवत्कृपा होण्यासाठी विशेष लाभदायक आहे. )


स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥६६॥


उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥६७॥


अर्चिष्मानर्चितः कुम्भो विशुध्दात्मा विशोधनः ।

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥६८॥


कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥६९॥ 


कामदेवः कामपालः कामी कान्तः कृतागमः ।

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥७०॥


ब्रह्मण्यो ब्रह्मकृद्‌‍ ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।

ब्रह्मविद्‌ ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥७१॥


महाक्रमो महाकर्मा महातेजा महोरगः ।

महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥७२॥


स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥७३॥


मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।

वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥७४॥


सद्‌गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥७५॥


भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥७६॥


विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्‌ ।

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥७७॥


एको नैकः सवः कः किं यत् तत् पदमनुत्तमम्‌ ।

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥७८॥


सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।

वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥७९॥


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्‌ ।

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥८०॥


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।

प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्गो गदाग्रजः ॥८१॥


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्‌ ॥८२॥


समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः ।

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥८३॥


शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥८४॥


उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।

अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥८५॥


सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।

महाह्र्दो महागर्तो महाभूतो महानिधिः ॥८६॥


कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।

अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥८७॥


सुलभः सुव्रतः सिध्दः शत्रुजिच्छत्रुतापनः ।

न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥८८॥


सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।

अमूर्तिरनघोऽचिन्त्यो भयकृद् भयनाशनः ॥८९॥( हा श्लोक भय, चिंता निवारणार्थ विशेष लाभदायक आहे. )


अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्‌ ।

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥९०॥


भारभृत् कथितो योगी योगीशः सर्वकामदः ।

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥९१॥


धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।

अपराजितः सर्वसहो नियन्ता नियमो यमः ॥९२॥


सत्ववान् सात्त्विक: सत्यः सत्यधर्मपरायणः ।

अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥९३॥


विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।

रविर्विरोचनः सूर्यः सविता रविलोचनः ॥९४॥


अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।

अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥९५॥


सनात्सनातनतमः कपिलः कपिरव्ययः ।

स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥९६॥


अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥९७॥


अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥९८॥


उत्तारणो दुष्कृतिहा पुण्यो दु:स्वप्ननाशनः ।

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥९९॥


अनन्तरुपोऽनन्तश्रीर्जितमन्युर्भयापहः ।

चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥१००॥


अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।

जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥१०१॥ 


आधारनिलयो धाता पुष्पहासः प्रजागरः ।

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥१०२॥


प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥१०३॥


भूर्भुवःस्वस्तरुस्तारः सपिता प्रपितामहः ।

यज्ञॊ यज्ञोपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥१०४॥


यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।

यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥१०५॥


आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥१०६॥ ( हा श्लोक भगवंताची कृपा होण्यासाठी विशेष लाभदायक आहे. )


शङ्खभृन्नदकी चक्री शार्ङ्ग्धन्वा गदाधरः ।

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१०७॥


॥ सर्वप्रहरणायुध ॐ नम इति ॥

॥ विष्णुसहस्त्रनामस्तोत्रम् संपूर्णम्  ॥


- ॐ - श्री: - स्वस्ति -



No comments:

Post a Comment