Jun 21, 2022

श्रीवासुदेवानन्दसरस्वतीस्वामीविरचितं मानसपूजास्तोत्रं


॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


ध्यायेत् सद्‌गुरुमासनं मणिमयं पाद्यं सुतीर्थोदकं । अर्ध्यं गंधसुमाल्यमाचमनकं गंगाजलैरर्पितं ॥ स्नानं पौरुषसूक्तरुद्रसलिलै: श्वेतांबरं भूषणं । मुक्ताशुक्तिसुवर्णचंदनमिदं श्वेतं सुपुष्पं वरं ॥१॥ धूपं दीपकमाज्यवर्तिसहितं नैवेद्यकं सुंदरं । भक्ष्यं पंचविधं फलं बहुविधं तांबूलकं दक्षिणां ॥ कर्पूरं सुमनांजलिं भ्रमणकं पादांबुजे वंदनं । भक्त्या गायननृत्यनादरुचिरं राजोपचारादिकं ॥२॥ सर्व मानसकल्पितं सुखनिधे स्वीकृत्य सर्वेश्वर । मच्छोकं जहि बालके कुरु दयां मामुद्धराज्ञानत: ॥ माता त्वं च पिता सखा सुहृदपि स्वामी च त्वं मे गुरो क्षंतव्या: सकलापराधनिवहा: पूजानभिज्ञस्य मे ॥३॥ ॥ इति श्रीपरमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचितं मानसपूजास्तोत्रं सम्पूर्णम् ॥


No comments:

Post a Comment