॥ श्रीगणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥
विघ्नेश्वराय वरदाय सुरप्रियाय । लम्बोदराय सकलाय जगद्धिताय । नागाननाय श्रुतियज्ञविभूषिताय । गौरीसुताय गणनाथ नमो नमस्ते ॥१॥ भक्तार्तिनाशनपराय गणेश्वराय । सर्वेश्वराय शुभदाय सुरेश्वराय । विद्याधराय विकटाय च वामनाय । भक्तप्रसन्न-वरदाय नमो नमस्ते ॥२॥ नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नम: । नमस्ते रुद्ररूपाय करिरुपाय ते नम: । विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्यं विनायकम् ॥३॥ लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥४॥ त्वां विघ्नशत्रुदलनेति च सुन्दरेति । भक्तिप्रदेति सुखदेति फलप्रदेति । विद्याप्रदेत्यघहरेति च ये स्तुवन्ति । तेभ्यो गणेशवरदो भव नित्यमेव ॥५॥
॥ श्रीगजाननार्पणमस्तु ॥
॥ श्रीगुरूदत्तात्रेयार्पणमस्तु ॥
॥ श्रीगुरुदेवदत्त ॥
No comments:
Post a Comment