Feb 25, 2024

श्रीदत्तमानंदाष्टकं


॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं । निर्विकल्पं निराबाधं दत्तमानंदमाश्रये ॥१॥ योगातीतं गुणातीतं सर्वरक्षाकरं विभुं । सर्वदुःखहरं देवं दत्तमानंदमाश्रये ॥२॥ अवधूतं सदाध्यानम् औदुम्बरसुशोभितं । अनघाप्रिया विभुं देवं दत्तमानंदमाश्रये ॥३॥ निराकारं निराभासं ब्रह्मविष्णुशिवात्मकं । निर्गुणं निष्कलं शान्तं दत्तमानंदमाश्रये ॥४॥ अनसूयासुतं देवं अत्रिवंशकुलोद्भवं । दिगम्बरं महातेजं दत्तमानंदमाश्रये ॥५॥ सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकं । अखण्डमण्डलाकारं दत्तमानंदमाश्रये ॥६॥ पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितं । गुरुपरम्परं वन्दे दत्तमानंदमाश्रये ॥७॥ दत्तमानंदाष्टकं यः पठेत् सर्वविद्या जयं लभेत् । दत्तानुग्रहफलं प्राप्तं दत्तमानंदमाश्रये ॥८॥ फलश्रुति – एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वसिद्धिमवाप्नोति श्रीदत्त: शरणं मम ॥


॥ श्रीगुरूदत्तात्रेयार्पणमस्तु ॥
॥ श्रीगुरुदेवदत्त ॥

No comments:

Post a Comment