May 4, 2023

श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं आणि श्री मिलिंदमाधवकृत नृसिंहावतार माहात्म्य


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


हरिः ॐ । प्रणम्य शिरसा देवं नृसिंहं भक्तवत्सलम् । सच्चिदानंदरूपोऽयं परिपूर्ण जगद्‌गुरुम् ॥

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी । वज्रनखस्तृतीयं तु चतुर्थन्तु विदारणः ॥१॥ पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः । सप्तमं रिपुहन्ता च अष्टमो देववल्लभः ॥२॥ नवमं प्रह्लादवरदो दशमोऽनन्तहस्तकः । एकादशो महारुद्रो द्वादशं करुणानिधिः ॥३॥

द्वादशैतानि नामानि नृसिंहस्य महात्मनः । मन्त्रराजेति विख्यातं सर्वपापहरं शुभम् ॥४॥ क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् । राजद्वारे तथा मार्गे संग्रामेषु जलान्तरे ॥५॥

गिरिगव्यहरगोव्ये व्याघ्रचोरमहोरगे । आवर्तनं सहस्त्रेषु लभते वाञ्छितं फलम्॥६॥

इति श्रीब्रह्मपुराणे ब्रह्मनारदसंवादे श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं सम्पूर्णम्



श्री मिलिंदमाधवकृत नृसिंहावतार माहात्म्य :



No comments:

Post a Comment