Feb 24, 2023

श्री दत्तात्रेय स्तुती


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥

दत्तात्रेयं सनातनं ब्रह्म निरञ्जनम् । आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥१॥ चिन्मयं व्यापितं सर्वं चिदाकाशं दिगम्बरम् । निर्विकल्पं निराभासं दृश्यदर्शनवर्जितम् ॥२॥ अगोचरं निरालम्बं ब्रह्मचारी यतीश्वरः । सर्वलोकनायकं संपूर्णं परमात्मनरक्षकः ॥३॥ आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः । शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥४॥ दत्तात्रेयं नाथोत्तमं सुखदं परमानन्दसागरम् । चित्कीर्तिभूषणं वन्दे स्मर्तृगामी स माऽवतु ॥५॥ हर्षवर्धनं वन्दे कौवल्यसुखदायकं । सकलागमपूजितं वन्दे स्मर्तृगामी स माऽवतु ॥६॥ संसारतमनाशनं संकल्पदु:खदलनम् । तापत्रयनिवारकं वन्दे स्मर्तृगामी स माऽवतु ॥७॥ संशयार्णवखण्डनं दोषत्रयविभेदिनम् । ब्रह्मप्रकाशात्मानं वन्दे स्मर्तृगामी स माऽवतु ॥८॥ भार्गवप्रियकृत्तमं दूरत्वपरिनाशनम् । जगदार्जवपालनं वन्दे स्मर्तृगामी स माऽवतु ॥९॥ नमस्ते कालाग्निशमनाय योगिजनवल्लभाय नमोऽस्तु ते । नमस्ते अत्रिपुत्राय दत्तात्रेयाय नमोऽस्तु ते ॥१०॥ नमस्ते लीलाविश्वम्भराय अवधूताय नमोऽस्तु ते । नमस्ते अनसूयानन्दनाय दिगम्बराय नमोऽस्तु ते ॥११॥ नमस्ते सत्वसाध्याय सत्वसाक्षिणे नमोऽस्तु ते । नमस्ते गुह्यतमाय चिद् विलासाय नमोऽस्तु ते ॥१२॥ नमस्ते क्षेत्राधाराय क्षेत्रशून्याय नमोऽस्तु ते । नमस्ते रुपकारणाय गगनाकृतये नमोऽस्तु ते ॥१३॥ श्री दत्तात्रेय पाहि मां प्रसीद दिगम्बर । क्षमस्व अवधूत रक्ष रक्ष श्रीगुरो ॥१४॥  

 

॥ श्रीगुरुदेवदत्त ॥ 


No comments:

Post a Comment