॥ श्री गणेशाय नम: ॥ ॐ द्रां दत्तात्रेयाय नमः ॥
अध्याये प्रथम इहेष्टवंदनाख्यं
प्रोक्तं मंगलमथ नामधारकाख्यम्।
प्राप्येष्टं स्तुत इह धाम हर्षणीयं
दत्तोऽदर्शयदु तनुः प्रहर्षिणीयम् ।।१।।
सिद्धः सृष्टियुगस्थितीरिह जगौ सर्गे द्वितीये विधेः।
संवादं कलिना च दीपकगुरूपाख्यानकं सद्विधेः।।
यच्चाकारि हि दीपकेन गुरुसत्सेवाख्यविक्रीडितम्।
कुर्यात्कोऽत्र तथा करोत्यपि शशः शार्दूलविक्रीडितम् ।।२।।
तृतीयेऽध्यायेऽम्भोनशनमिति मौनैः प्रथमतोऽ-
म्बरीषोपाद्विष्णुव्रतहतिभिया वैष्णवमतः।
व्रजानेका योनीरिति शपति दुर्वाससि हरि-
स्तमादाच्छापं यन्निजसहनताभूच्छिखरिणी ।।३।।
तुर्ये त्रीशाः सत्त्वहृत्यै यथान्नं
स्मेहंतेऽदाच्चानसूया तथान्नम् ।।
बाला भूत्वा दुग्धमस्याः पपुस्ते
यत्कीर्तिदिक्शालिनी सर्वदाऽऽस्ते ।।४।।
दत्ताय ददौ द्विजाङ्गनान्नं श्राद्धात्पुरतः स पञ्चमेऽभूत्।
श्रीपादाभिधः सुतोऽन्धपङ्गूद्धृद्-भद्रविराडभूत्परिव्राट् ।।५।।
शिवो दशास्याय ददौ स्वलिङ्गम्
प्रगृह्य तस्माद्-गणपतस्ततस्तत् ।।
उपेन्द्रवज्रास्त्रमुखेरितः कौ
महाबलेशं निदधौ स षष्ठे ।।६।।
भूपेन्द्रवंशोन्नतयेऽत्र सप्तमे
गोकर्णमाहात्म्यमुवाच गौतमः ।।
तद्-ब्रह्महत्यालयकृद्गतिं वदन्
चण्डालिकायाः प्रशशंस भूभते ।।७।।
सकुसुतविधवा सा मर्तुकामा प्रदोष-
व्रतकथनत ईशस्तान्निवर्त्याष्टमेऽन्तात् ।।
स विबुधमकरोत्तज्जं च जन्मान्तरेऽस्याः
सुत इह भविता दिङ्मालिनी यस्य कीर्तिः ।।८।।
आख्यानकीर्तिश्रुतितोऽस्य मुक्तिर्भवान्तरेऽसौ रजकाय राज्यम् ।।
दास्यन्तिरोभून्नवमेऽत्र कृष्णातटेऽपि संपूरयति स्वतृष्णाम् ।।९।।
पथि तस्करघातितभक्तं सार्थमजीवयदेत्य चिरस्य।।
विनिहत्य च तान्दशमे श्रीपादातिवेगवती गतिरस्य ।।१०।।
एकादशे नृहरिसंज्ञक आस सोऽम्बा-
पुत्रः प्रदोषफलदः प्रणवं पठिष्यन् ।।
भूत्वाप्यवाक्श्रुतिगणानुपनीत ऊच
उद्धर्षणीं स्वजननीं बहुधा परिष्यन् ।।११।।
माणवक्राक्रीडितकृद्-द्वादश आश्वास्य विभुः ।।
मातरमेत्य च काशीं न्यास्यभवत्स निराशीः ।।१२।।
प्रसूमुखैर्जनिभुवि सङ्गतः स्वकै-
स्त्रयोदशेऽनुगयुगुपेत्य गौतमीम् ।।
मृतोत्सुकं जठररुगार्तमुद्धर-
न्व्यदर्शयद् भुवि रुचिरां प्रभुर्गतिम् ।।१३।।
सायंदेवं शक्रमिताध्याय उवाच
त्रीशो म्लेच्छं याहि न भीस्ते स तथेति ।।
गत्वा भीतम्लेच्छनृपेणार्चित एत्य नृत्यन्
रेजे मत्तमयूरो हि यथा सः ।।१४।।
चित्रपदोक्तित ईशस्तीर्थगमाय स शिष्यान् ।।
पञ्चदशे कथयित्वा तद्विधिमीरयदेव ।।१५।।
षोडशे गुरुरथोद्धृतात्मने धौम्यशिष्यचरितोपदेशतः ।।
ब्राह्मणाय विदमर्पयद् गुरुद्रोहिणेऽलमनुतप्तचेतसे ।।१६।।
आर्यावमानितोऽदादार्यायै मूढविप्र इह जिह्वां ।।
सप्तदशे तत्प्रेरित ईशमवाप्यालभत्ततो जिह्वाम् ।।१७।।
भिक्षार्थं गत्वा कुसुमितलतावेल्लितद्वारदेशम्
गेहं विप्रस्य प्रभुरतिदरिद्रस्य भुक्त्वापि शाकम् ।।
छित्वा वल्लीं स्ववसतिमगात्तल्लतामूलदेशे
लेभेऽर्थौघं द्विजवर इहाष्टादशे चाशिषोऽपि ।।१८।।
अमरापूर ऊनविंशकेऽनुगगङ्गानुजपा उदुम्बरे ।।
वरदे स निधाय पादुके गुरुराश्वास्य च योगिनीरगात् ।।१९।।
प्रेतार्तिहृताऽर्भौ दत्तौ मृत एकः ।
वर्ण्यापतदंबां विंशे तनुमध्याम् ।।२०।।
विद्युन्मालावत्संबंधं पुत्रादेः सन् चोक्त्वा बोधम् ।।
सत्यै चक्रे जीवोपेतं सैके विंशेऽसौ तत्पोतम् ।।२१।।
गन्धर्वं प्राप्य भीमामरदुहितृयुतिं भिक्षार्थमथ गुरु-
र्गत्वा दीनद्विजौको गतरदमहिषीं वंध्यां भरवहाम् ।।
दृष्ट्-वा दुग्धं ययाचे तदनु सुवदना स्त्रीः क्षीरमदुह-
द्-द्वाविंशेऽदात्पयोऽस्मै तदु वरदगुरुः पीत्वागमदसौ ।।२२।।
राट् त्रयोविंश आकर्ण्य सत्तद्यशः
स्रग्विणीं स्वां पुरीमानयत्तद्वशः ।।
श्रीगुरु रक्षसेऽदाद्-गतिं राजव-
द्राजदत्ते मठे विश्ववासोऽवसत् ।।२३।।
निन्दाकर्तृयतित्रिविक्रमं प्राप्य श्रीगुरुराश्वदर्शयत् ।।
सैन्यं न्यासिवपुः क्षणं चतुर्विंशे यानगराजवद्विराट् ।।२४।।
मत्तावाप्तौ श्रुतिनयविज्ञौ म्लेच्छाज्ञप्तौ द्विजविजिगीषू ।।
भिक्षुर्निन्ये श्रितशिबिकौ तौ गुर्वग्र्यं पञ्चसहितविंशे ।।२५।।
चित्रपदोक्तिभिरीशः षड्युतविंश उवाच ।।
वेदतदङ्गविशाखा यं प्रणमन्ति हि लेखाः ।।२६।।
अपि क इह यदीक्षणादपराजिताः
स बुरुडवदनाच्छ्रुतीः समवाचयत् ।।
अनयदुभमिते द्विजौ च पिशाचतां
सुगतिमथ गतौ च तौ द्विषडद्-बतः।।२७।।
अकथयदसाविष्टाविंशे स्वकर्मविपाकतो
विविधकुगतिं हीनत्वाप्तिं सचिह्नपुनर्भवम् ।।
तदघहृतये प्रायश्चित्तं च कृच्छ्रजपादिकं
पतितमकरोद् भूयोऽज्ञं सा मनोहरिणी कथा ।।२८।।
नवद्वययुते नतेन मुनिना स पृष्टोऽवदत्
विभूतिमहिमानमानतपदास्रपायावदत् ।।
कुमारहरवादमप्यथ स वामदेवो ददौ
गतिं भसितधारणेन विधिवच्च पृथ्वीधरः ।।२९।।
गोपीनाथसुतोऽत्रिसुतभजनात्पुत्रमापोद्वहोर्ध्वं
तत्स्त्री रुग्णं तमनयदथो पत्तनं गाणगाख्यम् ।।
मन्दाक्रान्ताध्वनि स तु पुरस्योपकण्ठं ममार
त्रिंशे तत्स्त्रीनिकटमथ गतो भूतिरुद्राक्षधृक्सन् ।।३०।।
स्त्रीधर्ममुवाच कुपूर्मितेऽध्याये धिषणोक्तमुपस्थिताम् ।।
विन्ध्याद्रिचरित्रसमन्विताऽगस्त्यर्षिसतीचरितं च सन् ।।३१।।
रुक्मवतीमूचे प्रणतां तामष्टसुता सौभाग्यवती स्याः ।।
प्रेतमपि द्वात्रिंश इहास्या वल्लभमाशूत्थापयदीशः ।।३२।।
भुजगशिशुभृता नीता कुलयुगिह पुराग्न्याढ्ये ।।
स्वपुरमपि सती वेश्या तत इह विकपी भूपौ ।।३३।।
कृतकरपुटराजप्रार्थितर्षिः सुतमृतिहतये रुद्राभिषेकम् ।।
श्रुतिपुरमितसर्गेकारयद्राट्तनयमुत मृतितोऽजीवयद्द्राक् ।।३४।।
सुरहितदकचकथा वृत्ता शरपुरमित इह सोमाख्यम् ।।
व्रतमपि यत इह सीमंतिन्यलभदपि च दयितं नष्टम् ।।३५।।
तर्कपूर्युजि हलमुखी स्त्री सुशिक्षणमिषत ईट् ।।
आह्निकाचरणमवदच्छाक्त्यसंमतमु सुधिये ।।३६।।
प्रमिताक्षरोक्तिगुरुराह सुचिरसुरपूजनादिसकलाह्निकवित् ।।
अशनादिधर्मशयनादिविधिः स्वरपूर्मितेऽत्र हतभक्तविधिः ।।३७।।
त्रिलोकपर्याप्तकृतोदनेन संभोजिता विप्रमुखा अनेन।।
अष्टत्रियुक्ते ह्युपजातयोऽपि भक्ताय दत्तो गुरुणा वरोऽपि।।३८।।
नवत्रिमितसर्गे व्यधात्स्थविरवंध्याम् ।।
कुमारललितां पिप्पलार्चनत ईशः ।।३९।।
खयुगमितेऽत्र कुष्ठविनिवृत्त्यै नरहरयेऽवदत्समिदर्चाम् ।।
तदु विटपी द्विजश्च शुचिरासीदियमजकीर्तिरिन्नवमालिनी ।।४०।।
अवददिह परीक्ष्य सायंदेवं कुयुगमिते भगवान्गुरूक्तलब्ध्यै ।।
विधिजमुपगतः सुपुष्पिताग्रगमवन आर्य उवाच काशीयात्राम् ।।४१।।
वातोर्मीतिर्द्वियुगाढ्ये स सर्गे शिष्टां यात्रां कथयन्दर्शयित्वा ।।
काशीं दारादिनुतश्चानयित्वा सायंदेवं गुरुराह व्रतं सत् ।।४२।।
सायंदेवाय त्रियुगपरिमितेऽध्याये
प्राहेशोऽनंतव्रतमिह च परत्रेष्टम् ।।
यस्याचीर्णेन व्यपगतदुरितो याया-
त्कौण्डिण्यः पार्थश्च सुगतिमितोसंबाधाम् ।।४३।।
क्षणतः श्रुतिवेदसंमितेऽस्मिन्ननयद्यतिराज एकरूपः ।।
श्र्यगमात्मरतं स तंतुकं चानयदाशु निवेद्य राट्चरित्रम् ।।४४।।
यद्धीरासीद्भ्रमरविलसिता नंद्यंबोक्त्या कुरुगुपशमधीः ।।
प्राप्येशं द्राक्स शुचिकविरभूद् गुर्वीक्षातोऽक्षयुगमित इह ।।४५।।
स्वप्न उपेत्य स आदद ईशो रसकृतयुक्त इहार्चनमग्र्यम् ।।
केसरिदत्तमभूद्द्रुतमध्यात्मकपददस्य कविः स च शिष्यः ।।४६।।
दीपावल्यां संप्रार्थितः सप्तशिष्यैः
सप्तग्रामान्तत्क्षेत्रसंस्थोऽप्यगात्सः ।।
अष्टात्मा भूत्वा सप्तवेदाढ्यसर्गे
लोके यन्मूर्तिर्विश्रुता वैश्वदेवी ।।४७।।
क्षेत्रं गुरूक्तवदशेषमपक्वधान्यं
चिच्छेद शूद्र उपगां विनिवारयन्तीम् ।।
सिंहोन्नताक्ष इव चात्मवधूं निवार्य
लेभेऽमितर्धिमिभवेदयुजीशभक्त्या ।।४८।।
सर्गेऽङ्कवाक्संमित इन्द्रवज्रालेपोपमाघक्षतिकृद्-भगिन्याः ।।
तत्क्षेत्रमाहात्म्यमुवाच सोऽष्टतीर्थानि चादर्शयदत्र सद्-भ्यः ।।४९।।
खशरयुते पुरोक्तरजकोऽभवद्यवनराज आस वृषकृत्
पृथुपिटकस्तदङ्क उदितस्तदीयशमकृद्-द्विजो नृपकथाम् ।।
अवददथो ययौ स गुरुं स्मृतिं प्रथमजन्मनोऽलभदथो
गतरुगसौ सुयानगमजं गजाश्वललितं पुरं स्वमनयत् ।।५०।।
राजपुरादेत्य स च नीजपीठं कीर्तिरभून्मम सुशुचिरतन्वी
स्थेयमिहातः परमिह न साक्षादित्यवनीषुयुजि स च विचार्य ।।
स्वानपि चाश्वास्य बहुवरदानैः पुष्पकृतासनगत इदमाह
मद्भजनाद्वः सुगतिरिह तिष्ठे सत्यमितीडरमभवददृश्यः ।।५१।।
श्रवणेच्छाश्रुतानां च तदन्येषां स्मृतिर्यतः ।।
सैकपञ्चाशदध्यायसारभूतार्थमालिका ।।५२।।
तीर्णा आशु तरन्त्यस्मात्तरिष्यन्त्यघतो नराः ।।
तीर्थं गुरुचरित्राख्यमवगाह्यमिदं बुधैः ।।५३।।
इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचिता
श्रीगुरुसंहिता(समश्लोकीगुरुचरिता)ध्यायसारावतरणिका संपूर्णा ।।
No comments:
Post a Comment