Dec 11, 2017

श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचितं श्रीदत्तात्रेयस्तोत्रम्


॥ श्री गणेशाय नम: ॥ ॐ द्रां दत्तात्रेयाय नमः ॥ 


अनसूयात्रिसम्भूत दत्तात्रेय महामते ।

सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १॥


शरणागतदीनार्ततारकाऽखिलकारक ।

सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २॥


सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज ।

सर्वसङ्कटहारिन् त्वं मम चित्तं स्थिरीकुरु ॥ ३॥


स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः ।

भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४॥


सर्वपापक्षयकरस्तापदैन्यनिवारणः ।

योऽभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ॥ ५॥


य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः ।

स्थिरचित्तः स भगवत्कृपापात्रं भविष्यति ॥ ६॥

।। इति श्रीपरमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥


No comments:

Post a Comment