Jan 16, 2017

॥ श्री दत्तस्तवस्त्रोत्रम ॥


II श्री गणेशाय नमः II


भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः I

दूरादेव पलायन्ते दत्तात्रेयं नमामि तम् II १ II


यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति I

भीतिग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम् II २ II


दद्रुस्फोटककुष्ठादि महामारी विषूचिका I

नश्यन्त्यन्ते‍ऽपिरोगाश्च दत्तात्रेयं नमामि तम् II ३ II


संङ्गजा देशकालोत्था अपि साङ्क्रमिका गदाः I

शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तम् II ४ II


सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम् I

यन्नामशान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् II ५ II


त्रिविधोत्पातशमनं विविधारिष्टनाशनम् I

यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् II ६ II


वैर्यादिकृतमन्त्रादिप्रयोगा यस्य कीर्तनात् I

नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तम् II ७ II


यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते I

य ईशः सर्वतस्त्राता दत्तात्रेयं नमामि तम् II ८ II


जयलाभयशःकामदातुर्दत्तस्य यः स्तवं I

भोगमोक्षप्रदस्येमं प्रठेद्दत्तप्रियो भवेत् II९II

II इति श्री.प.प.वासुदेवानंदसरस्वतीविरचितं दत्तस्तवस्तोत्रं संपूर्णम् II


No comments:

Post a Comment