॥ श्री गणेशाय नम: ॥ ॐ द्रां दत्तात्रेयाय नमः ॥
अनसूयात्रिसम्भूत दत्तात्रेय महामते ।
सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १॥
शरणागतदीनार्ततारकाऽखिलकारक ।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २॥
सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज ।
सर्वसङ्कटहारिन् त्वं मम चित्तं स्थिरीकुरु ॥ ३॥
स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः ।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४॥
सर्वपापक्षयकरस्तापदैन्यनिवारणः ।
योऽभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ॥ ५॥
य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः ।
स्थिरचित्तः स भगवत्कृपापात्रं भविष्यति ॥ ६॥
।। इति श्रीपरमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥
No comments:
Post a Comment