Nov 4, 2018

॥ श्रीपाद अष्टक ॥


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥

वेदांतवेद्यो वरयोगीरूपं । जगत्प्रकाशं सुरलोकपूज्यं । इष्टार्थसिद्धीं करुणाकरेशं । श्रीपादराजं शरणं प्रपद्ये ॥१॥ योगीशरूपं परमात्मवेषं । सदानुरागं सहकार्यरूपं । वरप्रसादं विवुधैकसेव्यं । श्रीपादराजं शरणं प्रपद्ये ॥२॥ काषायवस्त्रं करदण्डधारिणं । कमण्डलुं पद्मकरेण शंखम् । चक्रं गदाभूषित भूषणाढ्यम् । श्रीपादराजं शरणं प्रपद्ये ॥३॥ भूलोकसारं भुवनैकनाथं । नाथादिनाथं नरलोकनाथम् । कृष्णावतारं करुणाकटाक्षं । श्रीपादराजं शरणं प्रपद्ये ॥४॥ लोकाभिरामं गुणभूषणाढ्यम् । तेजोमुनि श्रेष्ठमुनिर्वरेण्यं । समस्त दुःखानि भयानि शांतम् । श्रीपादराजं शरणं प्रपद्ये ॥५॥ श्रीकृष्णावतीरे वसतिप्रसिध्दं । श्रीपादश्रीवल्लभ योगिमूर्तिम् । सर्वैजनाश्र्चिंतितकल्पवृक्ष । श्रीपादराजं शरणं प्रपद्ये ॥६॥ मंत्राब्धिराजं यतिराजपूज्यम् । त्रैलोक्यनाथं जनसेव्यनाथं । आनंदचित्तं अखिलात्मतेजं । श्रीपादराजं शरणं प्रपद्ये ॥७॥ मंत्रानुगम्यं महानिर्मितेजं । महत्प्रकाशं महाशांतमूर्तिम् । त्रैलोक्यचित्तं अखिलात्मतेजं । श्रीपादराजं शरणं प्रपद्ये ॥८॥ श्रीपादष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् । कोटिजन्म कृतं पापं स्मरणेन विनश्यति ॥

॥ श्रीदत्तात्रेयार्पणमस्तु ॥ ॥ श्री गुरुदेव दत्त ॥